Balashish Stotra in Sanskrit | बालाशिषः स्तोत्रं



अथ बालाशिषः स्तोत्रं

स्वांशेनेदं ततं येन त्वमीशात्रिनंदन।।
मुञ्च मुञ्च विपद्भ्योsमुं रक्ष रक्ष हरे शिशुम्।।१।।

प्रातर्मध्यंदिने सायं निशि चाप्यव सर्वथा।।
दुर्दृग्गोधूलिभूतार्तिगृहमातृग्रहादिकान्।।२।।

छिन्धि छिन्ध्यखिलारिष्टं कमण्डल्वरिशूलधृक्।।
त्राहि त्राहि विभो नित्यं त्वद्रक्षालंकृतं शिशुम्।।३।।

सुप्तं स्थितं चोपविष्टं गच्छन्तं क्वापि सर्वतः।।
भो देवावश्विनावेष कुमारे वामनामयः।।४।।

दीर्घायुरस्तु सततं सहओजोबलान्वितः।।

        इति श्री. . . श्रीवासुदेवानन्दसरस्वतीविरचितः श्री दत्तपुराणांतर्गतम बालाशिषः संपूर्णः।।

Comments